________________
आगम
(०१)
प्रत
सूत्रांक
[१४८]
दीप
अनुक्रम [१६१]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१४८],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यज्ञवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकमू-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य किं च' इह' शरीरे जन्मनि विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ ?' मार्गो' नरकतिर्यङनुष्य गमनपद्धतिः, वर्त्तमानसामीप्ये वर्त्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं यदिवा तस्मिन्नेव जन्मनि समस्त कर्मक्षयोपपत्तेर्नास्ति नरकादिमांर्गः, कस्येति दर्शयति- 'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् सुधस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाम्योगेनोकं तदहं भवतां ब्रवीमि न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानिति यदुक्तं तत्प्रतिपादयन्नाह
आवंती यावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चिततं वा अचित्तमं वा एएसु चैव परिग्गहावंती, एतदेव एगेसिं महन्भयं भवइ, लोगवित्तं च णं उबेहाए, एए संगे अवियाणओ । ( सू० १४९ )
यावन्तः केचन लोके 'परिग्रहवन्तः परिग्रहयुक्ताः स्युस्तत (त्र) एवम्भूतपरिग्रहसद्भावादित्याह - 'से अप्पं वा' इत्यादि, तद्द्रव्यं यत्परिगृह्यते तदल्यं वा स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि एतच्च चित्तवद्वा स्याद
Education Internation
For Parts Only
~128~
narra