________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४०...],नियुक्ति : [२४३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
E
प्रत सूत्रांक [१४०]
दीप अनुक्रम [१५३]
पदं विहाय सारपद-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहण, अस्ति-विद्यते जीवेतवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तति, स च प्रत्यक्ष एवाहप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धमाधम्मोकाशपुद्गला गतिस्थित्यवगाहल्यणुकादिस्कन्धहेतवः सन्ति,एवमानवसंवरवन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभाविवादाचं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपम्यस्यति-परमं च तत्पदं च परमपदं, तथास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य संप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यत्नो रागद्धेपेषु, रागद्वेषोपशमाधः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः । ततोऽप्यपरापरसारणकर्षगतिरस्तीति दर्शयच्छुपक्षेपमाहलोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो।तस्स यसारो सारं जह जाणसि पुडिओ साह२४४
'लोकस्य चतुर्षभरल्यास्मकस्य कः सारः, तस्यापि सारस्य कोऽपरः सारः, तखापि सारसारस्य सारं यदि जानासि ततः पृष्टो मया कथवेति गावार्थः ॥ प्रश्नपतिवचनार्थमाह
लोगस्स सार धम्मो धम्मपि य नाणसारिपं चिंति । नाणं संजमसारं संजमसारंच निव्वाणं ॥ २४५ ॥
~1104