SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [४], मूलं [१३७],नियुक्ति: [२३४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३७] दीप तत-उपशम-इन्द्रियनोइन्द्रियजयरूपं संयम वा 'गत्वा प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयम त्यक्त्वा संयम ट्रा प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्तन-13 तिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकपायादिवरती वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीर:-कर्मविदारणसमर्थः, । अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारए' इत्यादि, सुष्टा-जीवनमर्यादया संयमानुछाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा सर्वकालं सकृदारोपितसंयमभारः संस्तत्र 'यतेत' बलवान् भवेदिति । किमर्थं पुनः पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह-'दुरनुचरों' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्' अप्रमत्तयतीना, किम्भूतानामित्याह-'अणियह' इत्यादि, अनिवा-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति-विगिंच' इत्यादि, मांस' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथकुरु, तद्भासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स के गुणमवामुयादित्याह-'एस' इत्यादि, 'एप' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात, कर्मरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च Pातदत्तरेषामपि मेदादीनामपचय उक्त एव द्रष्टव्यः, तद्भावभाविस्वात्तेषामिति । किं च 'आयाणिज्जे' इत्यादि, स वी अनुक्रम [१५०] SAMAC. ~100~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy