________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], नियुक्ति : [१०५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
१
प्रत सूत्रांक [१४]
उद्देशकः२
दीप अनुक्रम [१४]
श्रीआचा- भावपरियून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकला, कथं विकला?, अनन्तगुणपरिहाण्या, तथाहि पशचतुखियेकेराङ्गवृत्तिः न्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोपन्ना इति, उक्तं च-"सर्वनिकृष्टो (शी०) जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिद्देष्टा
जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियबाङमनोहगभिः ॥२॥" स च विषयकषायाः प्रशस्तज्ञान नः किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्ति कार्यत इति दुस्सम्बोधो, मेतायवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम्?, यतः 'अवियाणए'त्ति विशिष्टावबोध
रहितः, स चैवंविधः किं विदध्यादित्याह-अस्मिन् पृथिवीकायलोके 'प्रब्यथिते' प्रकर्षण व्यघिते, सर्वस्यारम्भस्य है तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा 'व्यथ भयचलनयो'रिति
कृत्वा व्यथितं भीतमिति, 'तत्थ तत्थेति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्'विभिन्नेषु कार्येपूत्पन्नेषु 'पश्यति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बलादेशो भवतीति, 'आतुरा' विषयकषायादिभिः | 'अस्मिन्' पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवच
ननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातोंRऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीणेदेहादिभिः सुखा
१ कश्चित्तु प्र. अपरो दुःसम्बोधः नास्तीदं.
॥३५॥
[81]