SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति : [९८] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३] अध्ययन उद्देशकः३ दीप अनुक्रम [१३] श्रीआचा- प्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृस्खो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चिरावृत्तिःत्सट्टितः कश्चित्सरितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ।। वधद्वारमाह(शी०) | पवयंति य अणगारा ण य तेहि गुणेहि जेहि अणगारा । पुढषि विहिंसमाणा नहु ते वायाहि अणगारा॥१९॥ ॥३३॥ इह ोके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रनजिताः, न च तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो ठाश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निलेपनिर्गन्धवं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाड्यात्रेण १ युक्तिनिरपेक्षेणानगारवं विभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाधापूर्वार्द्धन प्रतिज्ञा, पश्चार्डेन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोग:-कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद् , इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निहोसत्तिय मइला विरइदुगंछाइ महलतरा ॥१०॥ | 'अनगारवादिनों' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा' गृहस्थ तुल्या भवन्ति, अभ्युचयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निदोषा| द इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिनाः' कलुषितहृदया, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्या नुष्ठानात्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भव ॥३३॥ वध द्वारं, अनगारवादी [77]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy