________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [९४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
दीप अनुक्रम [१३]
द्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासद्रव्य
शस्त्रप्रतिपादनायाहKI हलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्यं ।।९५ ॥
तत्र हलकुलिकविपकुद्दालालित्रकमृगशृङ्गकाष्ठाग्म्युचारप्रश्रवणादिकमेतत् 'समासतः संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाहकिंची सकायसत्वं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्वं भावे अ असंजमो सत्धं ॥ ९६॥ किश्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्वमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच सर्वमपि द्रव्यशखं, भावे पुनः 'असंयमः' दुष्प्रयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह
पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं । जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ ९७॥
यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि हापादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह
नधि य सि अंगुबंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥९८॥ पूर्वार्द्ध गतार्थ, केषाचित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाश्चित्तु प्राणानप्यतिपातयेयु-| रिति । तथा हि भगवत्या दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आमिलक
RELIGunintentATHREE
शस्त्रद्वारम् एवं शस्त्रस्य भेदा:, वेदना द्वार
[76]