________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
दीप अनुक्रम [१३]
इति एतदहं ब्रवीमि यत्सागुक्तं यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रशमोद्देशकः समाप्तः॥
उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्स चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाहै धितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारण
मुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वायनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तनियुक्तिकृद्दर्शयितुमाह
पुढचीए निकखेवो परूवणालक्खणं परीमाणं । उपभोगो सत्थं वेयणा य वहणा निवित्तीय ॥१८॥
प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच नाशङ्कनीय, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य शाच पृथिव्यादिरूपरवात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृधिव्या
नामादिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाण-संवर्ति
तलोकप्रतरासंख्येयभागमात्रादिकम् , उपभोगः-शयनासनचमणादिकः, शस्त्रं-हाम्लक्षारादि, वेदना-स्वशरीराव्यक्तकाचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधा-कृतकारितानुमतिभिरुपमईनादिका, निवृत्ति-अप्रमत्तस्य मनोवाकायगु
प्याऽनुपमहादिकेति समासाथैः । व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह
प्रथम अध्ययने द्वितीय: उद्देशक: 'पृथ्विकाय' आरब्धः, 'पृथ्वी' शब्दस्य निक्षेपा:,
[66]