________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [११], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [११]
दीप अनुक्रम [११]
|दुर्गाद्युपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः पश्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइमरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थ कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुप्पश्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते, तथाहि-व्याधिवेदना" लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्धमझ्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाकाययोगैः कर्मादानं | विदधतीत्यायोजनीयम् । तथा दुःखप्रतिघातार्थमेव सुखोपत्त्यर्थं च कलत्रपुत्रगृहोपस्करायाददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च "आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्वृहिणः सुतेषु ।। कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुचैःपदलहनाय ॥१॥" तदेवंभूतैः क्रियाविशेषः कर्मोपादाय नानादिश्वनुसञ्चरन्ति
अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति । दा॥११॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह
एयावंति सव्वावंति लोगसि कम्मसमारंभा परिजाणियव्वा भवंति (सू०१२) 'एआवन्ती सब्यावन्तीति एतौ द्वौ शब्दो मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतपर्यायी, एतावन्त एव १मोक्षाया प्र.
%AR
कर्माश्रव-हेतुभूत क्रियाविशेषे प्रवर्तने जीवस्य हेतुः, ते ते क्रिया:
[64]