________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [११], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [११]
दीप अनुक्रम [११]
श्रीआचा-1 वेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र 'परि- अध्ययनं १ रावृत्तिः
वन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद्बली तेजसा देदीप्यमानो देवकुमार इव (शी०) लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिपग्रहादिरूपं तदर्थं वा चेष्टमानः कमोचि
उद्देशकः१ नोति तथा पूजन पूजा-द्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं ॥२६॥
सम्भावयति, तथाहि-वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं
राज्ञामन्येषामपि यथासम्भवमायोजनीयम् , अत्र च चन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थे चतुर्थी विधेया, परिव18/न्दनमाननपूजनाय जीवितस्य कर्माश्रयेषु प्रवर्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्या
र्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थे चतुर्थी, एतदर्थे । च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थ क्रौञ्चोरिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्-“वारिदस्तृप्तिमामोति, सुख-I मक्षयमनदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥११॥" अत्र चैकमेव सुभाषितम्-अभयप्रदान'मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवतते , यदिवा भमानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ वघबन्धादौ प्रवर्त्तते, यदिवा मरणनिवृत्त्यर्थमात्मनो ॥२६॥
१ कार्तिकेयः, -
कर्माश्रव-हेतुभूत क्रियाविशेषे प्रवर्तने जीवस्य हेतुः, ते ते क्रिया:
[63]