SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१०], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - -+ प्रत सूत्रांक [१०] -+ -+ दीप अनुक्रम [१०] गरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपातं भवति, 'कर्म योगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिजानाति आत्मना सह या सन्मतिः स्वमति-अवधिमनापर्यायकेवलजातिस्मरणरूपा तया जानाति, कृश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्त्येति । अथ किमर्थमसी कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवत्तेत इत्याहइमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं (सू०११) तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवित-प्राणधारणम् , तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षास-III नवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गु-18 सारस्य तडिल्लताविलसितचञ्चलस्य बहपायस्य दीर्घसुखाई क्रियासु प्रवत्तेते, तथाहि-जीविष्याम्यहमरोगः सुखेन भो-13 गान् भोक्ष्ये ततो व्याध्यपनयनार्थ स्नेहापानलावकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथाऽल्पस्य सुखस्य कृते अभिमानग्रहाकुलितचेता बहारम्भपरिग्रहाद्बहशुभं कर्मादत्ते, उक्तं च-"वे वाससी प्रवरयोपिदपायशुद्धा, शय्याऽऽसने करिबरस्तुरगो रथो वा । काले भिपनियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ १ ॥ पुष्यर्थमन्नमिह | यत्प्रणिधिप्रयोगैः, संत्रासदोषकलुपो नृपतिस्तु भुङ्क्ते। यनिर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ॥ २॥ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाकरितेक्षणासु । विनम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशकित्तमतेः कतरत्तु सौख्यम् ॥ ३ ॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्मा-IN MARNATAK S amaram.org कर्माश्रव-हेतुभूत क्रियाविशेषे प्रवर्तने जीवस्य हेतु: [62]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy