SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [६], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक (६) दीप अनुक्रम अकरिस्सं चऽहं, कारवेसुं चाहं, करओ आवि समणुन्ने भविस्सामि (सू०६) इह भूतवर्तमानभविष्यकालापेक्षया कृतकारितानुमतिभिनव विकल्पाः संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यह-18 मिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्ती, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम् , अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहमिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाकायैश्चिदन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थ:-अकार्षमहमित्यत्राहमित्यनेनात्मोलेखिना विशिष्टक्रियापरिणति रूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति स एवाहं येन मयाऽस्य देहादेः पूर्व यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम् , उक्तं च-"विहेवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । ययपरिणामे सरियाई ताई हियए खुडुकंति ॥ १ ॥" 'तथा अचीकरमह'मित्यनेन परोऽकार्यादी प्रवभर्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविपाण्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरू १ चकारद्ववापिशब्दोपादानान्मनो• प्र. २ विभवावलेपनटितैर्यान्नि क्रियन्ते यौवनमदेन । पयःपरिणाम स्मृतानि तानि हृदये शल्यायन्ते ॥१॥ कृत्-कारित-अनुमित भेदेन २७-भेदा:, कर्मबंध परिज्ञा. [56]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy