________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०२]
दीप
यवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावान्नो मुक्त इति । एवम्भूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति
से जं च आरभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिणाय लोगसन्नं च सव्वसो (सू० १०३)
'स' कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविर त्यादिक संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात् , तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह'अणारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्ण केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्ण तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह-छणं छणं' इत्यादि, 'क्षणु [हिंसायां' क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरिजया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षण:-अवसरः कर्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्याऽऽसेवनापरिज्ञया च आचरेदिति । किं च-'लोयसझं' इत्यादि, 'लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वङ्गाजनितसुखेच्छा परिग्रहसंज्ञा वा तां| च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिजया च परिहरेत् , कथं? 'सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवं-18
अनुक्रम [१०६]
For P
OW
Humstaram.org
[306]