________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
राङ्गवृत्तिः
लोक.वि.२ उद्देशका
सूत्रांक
[१०२]
दीप अनुक्रम [१०६]
श्रीआचा-16 पेतो वा, स एवंभूतः के गुणमवाप्नोतीत्याह-न लिप्पईत्यादि, 'न लिप्यते' नावगुण्ठ्यते, केन?-क्षणपदेन' हिंसासदेन
प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामि त्यस्यैतद्रूपं। कोऽसौ?, वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीत्याह(शी०)
|से मेहावी त्यादि, स 'मेधावी' बुद्धिमान् यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिक संसारमित्यर्ण॥१४७॥ कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः
| कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्थापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्येष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति ?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकर्मांशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयानो बद्धो भवोपनाहिकर्मसद्भावानो मुक्को, यदिवा छद्मस्थ एवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद
॥१४७ ॥
[305]