________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
E%
प्रत
%
सूत्रांक
[१०२]
82%
दीप
इत्यादि, यो हि वश्येन्द्रियो विषयविषपराइन्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनाचार्यादिना धर्मकधिकेनासौ पर्यालोचनीयः कोऽयं पुरुषो?, मिथ्यादृष्टिरुत भद्रका, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेष नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः क्षेत्रतः किमिदं क्षेत्रं तच्चनिकैर्भागयतैरन्या तज्जातीयः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पयालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कायाँ, एवमसौ धर्मकथायोग्यः, अपरस्य स्वधिकार एवं नास्तीति, उक्तं च-"जो हेउवायपक्खमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥१॥" य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्या पुण्यवतोधर्मकथासमदृष्टिविधिज्ञः श्रोतृविवेचकः 'एषः अनन्तरोक्को 'वीरः कर्मविदारकः 'प्रशंसितः' श्लाषितः । किंभूतश्च यो भवतीत्याह-'जे बद्धे इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना, स च तीयकृद्गणधर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह-'उहुं' इत्यादि, ऊर्दू ज्योतिकादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च-'से सवओ' इत्यादि, 'स' इति वीरो बद्धपतिमोचकः 'सर्वतः सर्वकालं सर्वपरिशया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानाम्वितः सर्वसंवरचारित्रो
यो हेतुवादपक्षे हेतुक आगमे आगमिकः । स समयप्रापकः सिद्धान्तविराथकोऽन्यः ॥ १॥
अनुक्रम [१०६]
[304]