________________
आगम (०१)
[भाग-1] “आचार” - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति : [३३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सत्रांक
[-]
दीप अनक्रम
जिअसंजमोर अलोगोजह वज्झइ जह य तंपजहियव्वं ।सुहदुक्खतितिक्खावियसम्मत्तंश्लोगसारो ५य ३३ निस्संगया ६ य छठे मोहसमुत्था परीसहुवसग्गा ७ । निजाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९॥३४॥
तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो-'जियसंजमोत्ति जीवेषु संयमो जीवसंयम:-तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहिय'ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमाधिकारः । तृतीये स्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा
विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसंपनेन तापसादिकष्टतपासेविनामष्टगुणैश्वर्यमुदीक्ष्यापि दृढसम्यक्त्वेन भवि-IN दतव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रा-18
गुक्तगुणयुक्तेन निसङ्गतायुक्तेनापतिबद्धेन भवितव्यम् । सप्तमे त्वयम्-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीपहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे स्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्मदर्शनं च शेपसाधूनामुत्साहाएं,
१ उदइओ भावो लोगा कसाया जाणियव्या (इति चूर्णिः).
T
अध्ययन-१ शस्त्रपरिज्ञा" आरब्धं अध्ययन-अर्थाधिकार: एवं उद्देशक-अर्थाधिकारः
[30]