________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९९, गाथा-२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[९९]
||२|| दीप अनुक्रम [१०२+ १०३]
रीरं वा, अथवा 'धुनीहि' विवेचय पृथकुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथं तच्छरीरकं धूयते, ममत्वं||| दवा तदुपरि न कृतं भवतीत्याह-प्रान्त' स्वाभाविकरसरहितं स्वल्प वा 'रूक्षम् आगन्तुकस्नेहादिरहितं 'द्रव्यतो
भावतोऽपि प्रान्त-द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ?-'वीराः' साधवः, किंभूताः'समत्वदर्शिनः' रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा-सम्यक् तत्त्वं सम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिहरवा, प्रान्तरुक्षसेवी समत्वदर्शी च के गुणमवामोतीत्याह-'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कादिशरीरं| धुनानो भावतो भवीर्घ तरतीति । कोऽसौ ?-'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौघ, कश्च भवौघं तरति ?-यो 'मुक्त' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्ती, ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह
दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ बत्तए, एस बीरे पसंसिए, अच्चेइ लोयसंजोगं, एस नाए पवुच्चइ (सू० १००)
[298]