SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१००], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचारावृत्तिः (शी०) सूत्रांक [१००] KARE ॥१४४॥ दीप अनुक्रम [१०४] वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं लोक.वि.२ यद्न्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः-मोक्षगमनायोग्यः, स च कुतो भवति-अनाज्ञया-II तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य उद्देशका ६ सबै यथासम्भवमायोज्यं, तथाहि-मिथ्यात्वमोहिते लोके संबोधैं दुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं15 शब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थता भावयितुं प्रान्तरुक्षाणि भोक्तुम् , एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने च कर्मोदयोऽनाधतीतकालसुख|भावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह-'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कपायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच, आह च-'एस' इत्यादि, 'एष' इति सुवसुमुनिानाधरितो| यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् 'प्रशंसितः' तद्विद्भिः श्लाघित इति । किं च 'अञ्चेई त्यादि, स ॥१४॥ एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति, के-लोकसंयोग' लोकेनासंयतलोकेन संयोगः-सम्बन्धः [299]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy