SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [८९], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ༔, བློ ཀྵ པཎྞཾ ༔ जाणेजा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदनश्चैिवमात्मक:-शुद्धं गृह्णीयादशुद्धं परिहरेदितियावत्, किं तद्विजानीयात् ?-वस्त्रं वस्त्रग्रहणेन वस्लेषणा सूचिता, तथा Pापतग्रह-पात्रम्, एतद्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्य-|| नेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूंढा, तथा| अवगृह्यत इत्यवग्रहः, स च पश्चधा-देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासी नियूढाः, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादि विष्टरमिति, आस्यते-स्थीयते अस्मिन्निति वाssसन-शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः। &ाएतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन यावल्लाभं गृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्तिन मजिज्जा, अलाभुत्ति न सोइज्जा, बहुंपि लढुंन निहे, परिग्गहाओ अप्पाणं अवसक्किजा (सू०९०) 'लब्धे प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौषधादिके 'अनगार' भिक्षुः 'मात्रां जानी-18 यात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा [278]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy