SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [८०] दीप अनुक्रम [ ८१ + ८२] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) - श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८०], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः Eucation International एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय मिठाणे न चिट्ठ, विहं पप्पखेयने तंमि ठाणंमि चिट्ठा ( सू० ८० ) 'इणमेव' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्क्षति' नाभिलषन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतंचारित्रं तच्चारिण इति । किं च- 'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत्, क्व ? – 'सङ्क्रमणे' सङ्क्रम्यतेऽनेनेति सङ्क्रमणं चारित्रं तत्र 'दृढो' विश्रोतसिकारहितः परीषहोपसः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्कं मनो यस्यासावशङ्कमनाः - तपोदमनियम निष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्त्तेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसा भवति, (न चौपशमिक सुखावासफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् क्षयते, उक्तं च- “ संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ १ ॥ " इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं न चैतद्भावनीयं यथा- परुत्परारि वृद्धावस्थायां वा धम्मै करिष्यामीति, यतः - 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनवसर इतियावत्, तथाहि सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्त्ती जन्तुर्जतुगोलक इव न विलीयेत इति उक्तं च--"शिशुम For Parts Only [254]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy