________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७८], नियुक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७८]
दीप
विवेकस्तद्वद्भिरेव सह संवसतिद्धितीयम् । एतयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धरवं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च-"जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः॥१॥ लोकदयव्यसनवह्रिविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृजनना-3 दिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्तात्? ॥२॥" एवं बधिरत्वमयदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफल क्रियानुष्ठानशून्यतां विभर्ति इति, उक्तं च-"धर्मश्रुतिश्रवणमङ्गलवर्जितो| | हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो भुवि यस्य शब्दाः, स्वमोपलब्धधननिष्फलतां प्रयान्ति ? है॥१॥ स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ॥२॥" एवं
मूकत्वमप्येकान्तेन दुःखावह परिसंवेदयते, उक्तं च-"दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेश मूढाः कर्मकृतं किं न पश्यन्ति ? ॥१॥” तथा काणत्वमप्येवंरूपमिति, आह च-"काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्को विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः ||१| एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्व' वामनलक्षणं 'वडभत्व' विनिर्गतपृष्ठीवडभलक्षणं 'श्यामवं' कृष्णलक्षणं 'शबलत्वं' श्वित्रलक्षणं सहज पश्चादावि वा कर्मवशगो भूरिशो दुःखराशिदेशीय परिसंवेदयते । किं च-सह 'प्रमादेन' विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिक्षा योनीः 'संदधाति'संधत्ते
अनक्रम
33
[250]