________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७५], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [७५]
दीप
लोभेन जुगुप्समानो लब्धान कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि| पश्यति, अपश्यश्चाप्रत्युपेक्षणयाऽभिकाङ्गति । यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच वाच्यमिति, आह च-'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविएचित्तः अत्र-शस्खे पृथिवीकायायुपधातकारिणि पौनःपुन्येन वर्तते । किं च-'से आयबले' आत्मनो बलं-शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुभिकोपघातकारिणीविधत्ते, तथाहि'मांसेन पुष्यते मांसमितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिवलं' स्वजनवलं मे भावीति, तथा तन्मित्रवलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्मेत्यबलं भविप्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरमामे वा वसति चौरभार्ग वा प्राप्स्यामीति चौरानुपचरति, अतिथिवलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिहि निःस्पृहोऽभिधीयते इति, उक्तं च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि |तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥" एतदुक्तं भवति-तलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तः 'विरूपरूपैः'नानाप्रकारैः पिण्डदानादिभिः कार्यैः 'दण्डसमादान'मिति दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादान-प्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् । यद्यहमेतनाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्ड
अनक्रम
[240]