________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७५], नियुक्ति : [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी०) ॥११५॥
लोक.वि.२ उद्देशकः२
सूत्रांक
[७५]
समादानकारणमुपन्यस्तम् , आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-पावमोक्खो'त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि पडूजीवोपधातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविर्वसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्राहितमतयो जुह्वति, तथा पितृपिण्डदानादी बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः पाण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुर्मोचमघमेवोपाददत इति । किश्च'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा आशंसनम् आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि-ममैतत् परुपरारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च-"आराध्य भूपतिमवाप्य ततो धनानि, |भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ एहि गच्छ पतोत्तिष्ठ, बद मौनं समाचर । इत्याद्याशाग्रहनस्तैः, क्रीडन्ति घनिनोऽथिभिः ॥२॥" इत्यादि ॥ तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह
दीप
अनक्रम
॥११५॥
. तं परिपणाय मेहावी नेव सयं एएहिं कजेहिं दंडं समारंभिजा नेव अन्नं एएहिं
For P
OW
[241]