________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७२], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७२]
दीप
६ भवति-संयमे रति कुब्बींत, तद्विहितरतस्तु न किश्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च-"क्षितितलशयनं
वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युचतानां, न मनसि न शरीरे| दुःखमुत्पादयन्ति ॥ १॥ तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? ॥२॥” इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमात् यैहेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टेबिइउद्देसे अढो उ संजमे कोइ हुज अरईए । अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं ।। १९७ ॥
इह हि प्रथमोद्देशके बढ्यो नियुक्तिगाथा आमंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थ द्वितीयोदेशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे सप्तदशभेदभिन्ने 'अदृढः' शिथिलो | मोहनीयोदयादरत्युद्भवाद्भवेत् , मोहनीयोदयोऽप्याध्यात्मिकैदोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदि
शब्दादिच्छामदनकामानां परिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः॥ [द्वितीयाध्ययने द्वितीयोद्देशकनियुक्तिः] ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्तेत, मेधावी
चात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षदाणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम् , उक्तं च-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
१ तृणसंस्तारनियष्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतखन चक्रवर्त्यपि ॥१॥
अनक्रम
करून
पुन: अत्र नियुक्ति क्रमे मुद्रण-दोष: (१८६ के बजाय सीधा १९७ क्रम दे दिया है, इसके पूर्व क्रम १६३ से १७१ दो बार दिये थे)
[234]