________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७१], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
राङ्गवृत्तिः (शी०)
॥१११॥
ཟླ པཎྞཾ ༔ ཀྵ བློ
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलो- लोक.वि.२ कविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राज्ञिरदेशि, तत्र माता-नाशकार |पित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् : इहापि तस्मि
नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद् , अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवे|दित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह
अरइं आउट्टे से मेहावी, खणंसि मुक्के (सू०७२) - अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-'आयई समणुवासेन्जासि आत्मार्थ संयम सम्यक्तया कुर्यात्,12 तत्र कदाचिदरत्युभयो भवेत्तदर्थमाह-'अरई' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षण-चारित्रा-| वसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सु मे आउसंतेणं भगवया एवमक्खाय' किं तच्छुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितकलत्राद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्तेत अपवतेत निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्वेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गे रति निवर्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्यैवेति, ततश्चेदमुक्तं
द्वितीय-अध्ययने द्वितीय-उद्देशक: 'अदृढता' आरब्धः,
[233]