________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [७०], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७०]
दीप
तिसृषु समासु सुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासु उत्सर्पिण्या तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमान प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगू धोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा-कर्मभावक्षणो नोकर्मभावक्षणश्च, तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसर उच्यते, तत्रोपशमश्रेण्या चारित्रमोहनीय उपशमितेऽन्तम्मौहूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणा|न्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो
देशोनां पूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्तमानस्य, शेषाणां तु कर्मणां पल्योप-15 ८ मासख्येयभागन्यूनान्तःसागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति,स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽ-14
नन्तगुणया शुद्ध्या विशुज्यमानो मतिश्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिक रसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन वर्भश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बभन्निति, ध्रुवकर्मप्रकृतयश्चमा:-पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीय मिथ्यात्वं कषायषोडशकं भयं जुगुप्सा | तैजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा वध्यमानत्वात् , मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यक्त्वमुत्पादयन्नेता एकविंशतिः(म्)परिवर्तमाना बनाति, तद्यथा-देवगत्यानुपूर्वीद्वयपश्वेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्रसंस्थानपराधातोच्छासप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोचर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि
अनक्रम
७१
For P
OW
[230]