________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६२]
दीप
४ाभागे विभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचना
नाडिकान्तर्वर्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि-“दंडेकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलण| आउस्स उवक्कमा एते ॥२॥” उक्तं च-"स्वतोऽम्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति ॥ १ ॥ उच्छासावधयः |प्राणाः, स चोरट्टासः समीरणः । समीरणाचलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ २॥” इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादयधिको जराभिभूतविग्रहां जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहि परिहायमाणहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं
१ दण्डः कक्षा शस्त्रं रज्वमिद पतनं विषं ब्यालाः। शीतमुष्णमरतिभयं क्षुत्पिपासा च व्याधिध ॥ १॥ मूत्रपुरीषनिरोधः जीर्णेऽजीणे च भोजने बहुशः । Kाधर्षणं घोलनं पीदनमायुष उपकमा एते ॥२॥
अनक्रम
[६३
SAREasatan international
[216]