SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६२] दीप अनुक्रम [ ६३ ] [भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], निर्युक्ति: [१८६] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ... आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ १०२ ॥ सन् पृथिवीकायादिजन्तूनां यच्छस्त्रम् उपघातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्त्तते, तथाहि - 'शसु हिंसायामित्यस्माच्छस्यते हिंस्यत इति करणे ष्टुम्विहितः तच्च | स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो,' 'अत्र' मातापितृशब्दादिसंयोगे लोभार्थी सन् 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः काठाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - 'अप्पं च' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्म्मपुद्गलाः 'इहे'ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु - इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवो| पलक्षितान्तर्मुहूर्त्त मात्रमल्पं - स्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्र्यावसानेऽप्यायुषि खलुशब्द| स्यावधारणार्थत्वात्संयम जीवितमल्पमेवेति, तथाहि अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कं तच्चाल्पमेवेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्त्तमपहाय सर्वमपवर्त्तते, उक्तं च- “अद्धा जोगुकोसे बंधित्ता भोगभूमिएसु लहुं । सब्वप्पजीवियं वज्जइतु उब्वट्टिया दोन्हं ॥ १ ॥” अस्या अयमर्थः -- उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एवं तं बद्धा, क? - 'भोगभूमिकेषु' देवकुब्र्व्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरपवृत्तिका - अपवर्त्तनं भवति, एतञ्चापर्यातकान्तर्मुहर्त्तान्तर्द्रष्टव्यं तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रमं यदा ह्यस्मान् स्वायुषस्त्र Education Internation For Parts Only [215] लोक.वि. २ उद्देशकः १ ॥ १०२ ॥
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy