________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६२]
दीप
पभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च-"उखणइ खणइ निहणइ रत्तिं ण सुअति दियावि य ससको । लिंपइ ठएइ सथयं लंछियपडिलंछियं कुणइ ॥१॥ भुंजसु न ताव रिको जेमेङ नविय अज मज्जीहं । नवि य वसीहामि घरे कायब्वमिणं बहुँ अजं ॥२॥" पुनरपि लोभिनोऽशुभव्यापारानाह-'आलुपे' आ-समन्तातुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्तव्याकर्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरहिकामु-1 ष्मिकविपाककारिणीनिलाञ्छनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च-सहसक्कारें करणं कारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच, (पा०५-२-१२७)अथवा छाग्दसत्वात्कतर्येव घञ् , करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरथैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थंकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान् , आह च-विणिविद्वचित्ते | विविधम्-अनेकधा निविष्ट-स्थितमवसाहमर्थोपार्जनोपाये मातापित्राद्यभिष्वझे वा शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा, पाठान्तरं वा विणिविडचिडे'त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादी चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह-'इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः
१ सत्खनति सनति निदधाति (इन्ति ) रात्रौ न खपिति दिवाऽपि च सशः । लिम्पति स्थगयति सततं लाञ्चित्तप्रतिलाञ्छितं करोति ॥ १॥ मुहरूष न ताबभिव्यापारी जिमितुं नापि चाय महक्ष्यामि । नापि च वत्स्यामि गृहे कर्तव्यमिदं बाय ॥२॥
अनक्रम
[६३
[214]