________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१७०-R.] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
[६१]
दीप
ब्बगुणो ब्वं चिय गुणाण जं तमि संभवो होइ । सचित्ते अचित्ते मीसंमि य होइ दवंमि ॥१७॥
तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति !, गुणानां यतो गुणिनि तादात्म्येन सम्भवात् (क), ननु च द्रव्यगुणयोर्लक्षणहाविधानभेदाभेदः, तथाहि-द्रव्यलक्षण-गुणपर्यायवद् द्रव्यं, विधानमपि-धर्माधर्माकाशजीवपुद्गलादिकमिति, गुणल-IIM
क्षण-द्रव्याश्रयिणः सहवर्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा-अरूपि रूपि च, तत्रारूपिद्व्यं त्रिधा-धर्माधर्माकाशभेदभिन्न, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्तत्वागुरुलघुपयोंयलक्षणः, तत्रामूर्तत्वं त्रयस्यापि स्वं रूपं न भेदेन व्यवस्थितम् , अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्ड
स्थासकोशकुशूलपर्यायवत् , रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, साभेदेनानुपलब्धेः, संयोगविभागाभावात् , स्वात्मवत् । तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना
ज्ञानादयो गुणाः, तद्देदे जीवस्याचेतनत्वप्रसङ्गात् , तत्सम्बन्धादविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येsप्येकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः ॥ तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत्किमिदानीमभेदोऽस्तु !, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात्, तथाहि-चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्थाद्, रू
अनक्रम
मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १७०-R' इति निर्देशित:
[180]