________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम
[६२]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [१], मूलं [ ६१...], निर्युक्ति: [१६७-R.] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
*
श्रीआचाग्व्यावर्णितस्वरूपयोर्भावलोकभाव विजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्म्मणा लोकः - प्राणिगणो वध्यते, राङ्गवृत्तिः *बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥ तेनैव भावलोकविजयेन किं फलमित्याह४ विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ । कामनियत्तमई खलु संसारा मुबई विप्पं ॥ १६८ ॥ (शी०) व्याख्या- 'विजितः' पराजितः कोऽसौ ?-कपायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवामोतीत्याह- संसारान्मुच्यते क्षिप्रम्, अतस्तस्मान्निवर्त्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्त्तितुं श्रेय एव किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति- 'कामे' त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्- 'जे गुणे से मुलद्वाणे जे मूलद्वाणे से गुणे' इत्यादि ॥
॥ ८४ ॥
अस्य व निक्षेपनिर्युक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपः
| दवे खित्ते काले फल पञ्चव गणण करण अन्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥ १६९॥ • नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनिर्युक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, सा च 'उद्देसे' त्यादिना द्वारगाथाद्वयेनानुगन्तव्या । साम्प्रतं सूत्रस्पर्शिक निर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह
For Park Use Only
मुद्रण दोषात् अत्र निर्युक्ति-क्रम पुनः लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा निर्युक्तिः '१६७-२' निर्देशितः
[179]
लोक.बि. २ उद्देशकः १
॥ ८४ ॥