SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६७-R.] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: AIR प्रत सूत्रांक [६१] - दीप रार्थों वभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैगौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया दहभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभांविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गे व्याख्यायमाने पश्चात्कालभाविना चतुर्विशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, स च पूर्वमावश्यकनियुक्ति विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा चोक्तम्-"आवस्सयरस दसकालियस्स तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वादनाहत्य द्रव्यादिकमाह-'दब्ब'मित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादे पतिमल्लादेवा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहस्रैर्भरतेन जितं भरतं, कालस्य प्राधान्यात् , भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् | हवा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः । तदेवं लो-16 कविजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह-'भवेत्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या ह्रस्व एवोपादायि, तथा चावाचि-"भावे कसायलोगो अहिगारो तस्स विजएणं'ति, तस्य औदयिकभावकपायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रक्रतम, इदमत्र हृदयम्-अष्टविधलोकपड़िधविजययोः प्रा आवश्यकस्य दशकालिकस्य तथोत्तराध्ययनेवाचारे अनक्रम मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १६७-R' निर्देशितः [178]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy