________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१६], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [५६]
RRC
दीप
तुलमन्नेसिमित्यादि, एतां तुला यथोक्तलक्षणाम् अन्वेषयेद्वे षयेदिति, का पुनरसी तुला ?, यथाऽऽत्मानं सर्वथा सु-13 खाभिलाषितया रक्षसि तथाऽपरमपि रक्ष, यथा परं तथाऽऽत्मानमित्येतां तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तं च-"कडेणं कंटएण व पाए विद्धस्स वेयणट्टस्स । जह होइ अनिव्वाणी सव्वत्थ जिएसुतं जाण ॥१॥" तथा "मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥" |अतश्च यथाऽभिहिततुलातुलितस्वपरा नैराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्त्तन्ते, कथमिति दर्शयति
इह संतिगया दविया णावकंखंति जीविङ (सू० ५७) 'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् , तामेवंविधां शान्ति गताः-प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्कन्ति-न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं| नावकाङ्क्षन्ति ?-'जीवितुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकामन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृधिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायाधस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तद्व्यवस्थिता एवोन्मूलितातितुङ्गरा
१ काप्टेन कष्टकेन वा पादे विद्धस्य वेदनातस्य । यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु ता जानीहि ॥ १॥ २ सपरान्तराः. प्र.
अनक्रम
1५७
[164]