________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [४०], नियुक्ति: [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
प्रत सूत्रांक [४०]
दीप
अनुक्रम [४१]
II किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात् , आवर्तोऽपि संसरणरूपो दुः
खात्मको न सम्भवति, सामान्यतस्तु संसारान्त पातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम्-"कोणसोक्खेहिं सद्देहिं पेम्म नाभि-ट्रि निवेसए" इत्यादि, तथा-"न शक्य रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥" कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते-वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च |
मनोहराः शन्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छन्दनिष्पत्तिरिति, M||रूपं पुनः काष्ठकर्मखीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चत्रमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलव
झकेतकीसरसचन्दनागुरुककोलकेलाजातिफलपत्रिकाकेसरमांसीत्वपत्रादीनां सुरभयो गन्धेन्द्रियाह्लादकारिणः प्रादुभवन्ति, रसास्तु विसमृणालमूलकन्दपुष्पफलपत्रकण्टकमज्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रहादिनो निष्पद्यन्ते अतिवह्व इति, तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकपच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्ष्यन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवत्त वर्तते, यश्च आवर्त्तवर्ती स रागद्वेषात्मकत्वात् गुणेषु वर्तत इति, स चावों नामादिभेदाच्चतुळ, नामस्थापने क्षुण्णे, द्रव्यावत: स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्या, स्वामित्वे नद्यादीनां कचित्तविभागे जलपरिभ्रमणं द्रव्यस्थावतः,
१ कर्णसौख्त्येषु शब्देषु प्रेम नाभिनिवेशयेत् .
HOSAR RS
[136]