SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३९], नियुक्ति: [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३९] ॥६ ॥ दीप अनुक्रम [४०] श्रीआचा- रएत्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेश- Iअध्ययन १ राङ्गवृत्तिःभाग भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति-'एस । (शी०) अणगारेत्ति पवुच्चई' 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यते इति, किं-| है उद्देशकः५ कृतः प्रकर्षः १, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीविषयानङ्गीकृत्य प्रवर्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा बनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्समाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति ॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह जे गुणे से आवहे जे आवट्टे से गुणे (सू०४०) यो 'गुणः' शब्दादिकः स आवर्तः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः-संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्डलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवर्सः, तत्कारणत्वात् , अथवैकवचनोपादानारपुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्तते स आवः वर्तते, यश्चावः वर्तते स गुणे वर्तेत इति, अत्र कश्चिचोद्यचक्षुराह-यो गुणेषु वर्तते स आवर्ने वर्त्तत इति साधु, यः पुनरावर्ते वर्त्तते नासौ नियमत एव ॥१२॥ गुणेषु वर्तते, यस्मात्साधयो वर्तन्त आवर्ते न गुणेषु तदेतत्कथमिति, अनोच्यते, सत्यम् , आवर्ते यतयो वर्तन्ते न गुणेषु, [135]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy