________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३९], नियुक्ति: [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[३९]
दीप अनुक्रम [४०]
प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भ वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तहि , ज्ञानक्रियाभ्यां तदुक्तम्-'नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता । न समत्था दा जे जम्ममरणदुक्खदाहाई ॥१॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह-मत्ता मइम' मत्वा-ज्ञात्वा अवबुध्य यथावत् जीवान् , मतिरस्यास्तीति मतिमान, मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रण हे मतिमन्! प्रवज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह-अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः-संयमः, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनसत्यारम्भान्निवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह-'तं जे नो करए' इत्यादि, 'त' वनस्पत्यारम्भ 'यो विदिततदारम्भकटुकविपाकः नो कुर्यात् , तस्य प्रतिविशिष्टेष्टफलावाप्तिाम्यस्यान्धमूदया प्रवर्त्तमानस्य, अभिलपितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातबदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनक्षुपङ्गचक्षुज्ञानव-15 दिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यगज्ञानपूर्विकां निवृत्ति करोति स एवं समस्तारम्भनिवृत्त इति दर्शयति-'एसोवरए'त्ति एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भ न करोतीति, स पुनरेवंविधनिवृत्तिभाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति-'एत्थोव
१ शानं क्रियारहितं क्रियामानं च द्वे अप्येकान्तात् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥१॥
[134]