________________
आगम
(०१)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [३९]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], निर्युक्तिः [१४२]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित .... आगमसूत्र - [०१], अंग सूत्र- [ ०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ब्राह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुर्दृश्यत्वं च द्वित्रिसङ्घयेयासङ्घयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ॥ किमनन्तानामप्येवं १, नेत्यत आह
इस दुण्ह तिन्ह व संखिजाण व न पासिउं सका। दीसंति सरीराई निओयजीवाणऽणंताणं ॥ १४३ ॥ नैकादीनामसङ्घ धेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात् न होकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तद्युपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगो| दास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च- "गोला व असंखेज्जा हुति णिओआ असङ्ख्या गोले । एकेको य निओए अनंतजीवो मुणेयब्वो ॥ १ ॥” एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्घधेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उक्तं विधानद्वारम् इदानीं परिमाणमभिधीयतेतत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह
गोसा भवन्ति निगोदा असङ्घयेवा गोले । एकैकध निगोदोऽनन्तजीयो मुनितव्यः ॥ १ ॥
Jan Eaton tumatal
F&P Us On
[130]