________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति : [१३८] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
अध्ययनं १ उद्देशकः५
[३८]
दीप अनुक्रम [३९]
श्रीआचा- पत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत् , प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोरावृत्तिः तिच्यत इति, नियमप्रदर्शनमेतत् , शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ॥ यत (शी०) उक्तम्-"सन्योऽवि किसलओखलु उग्गममाणो अणन्तओ भणिओ"इत्यादि ॥ तथाऽपरं साधारणलक्षणमभिधित्सुराह
चकागं भजमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अणंतजीवं वियाणेहि ॥ १३९॥ ॥ ५९॥
यस्य मूलकन्दत्वपत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिा-पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्य विजानीहि ॥ तथा लक्षणान्तरमाह
गूढसिराग पत्तं सच्छीरं जंच होइ निच्छीरं । जं पुण पणट्ठसंधिय अणंतजीवं वियाणाहि ॥ १४०।। स्पष्टार्था ॥ एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्पति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाहसेवालकत्वभाणियअवए पणए य किंनए य हढे । एए अणंतजीवा भपिया अपणे अणेगविहा ॥१४१ ।।
सेवालकत्थभाणिकाऽयकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीरधमवगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाहएगस्स दुण्ह तिण्ह व संखिजाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ।।१४२ ।। १ सर्वोऽपि किशलयः सलगच्छननन्तको भणितः.
॥ ५९॥
[129]