________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३०...], नियुक्ति : [११८] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३०]
दीप अनुक्रम [३१]
उसित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोरूपीकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता बादराग्निषूपद्यमानास्तव्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्र च बादराः पर्याप्तकास्तत्रैव वादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तक| भेदेन प्रत्येक द्विधा भवन्ति, एते च वर्णगन्धरसस्पर्शादेशैः सहस्रायशो भिद्यमानाः सङ्ग्रेचयोनिप्रमुखशतसहस्रभेदपरि| माणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ॥ साम्प्रतं चशब्दसमुचितं लक्षणद्वारमाह
जह देहप्परिणामो रतिं खजोयगस्स सा उवमा । जरियस्स य जह उम्हा तओवमा तेउजीवाणं ॥ ११९ ॥ 'यथे ति दृष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्तिः 'रात्रा'विति विशिष्टकालनिर्देशः 'खद्योतक' | इति प्राणिविशेषपरिग्रहा, यथा तस्यासी देहपरिणामो जीवप्रयोगनिवृत्तशक्तिराविश्वकास्ति, एवमहारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा वा-ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एवोपमाऽऽग्नेयजन्तूनां, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयच्यतिरेकाभ्यामने सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थ:-जीवशरीराण्यङ्कारादयः, छेद्यत्वादिहेतुगणान्वितत्वात् , सानाविषाणादिसङ्घातवत् , तथा आत्मसंयोगाविभूतोऽङ्गारादीनां प्रकाशपरिणामः,
[110]