________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३०...], नियुक्ति : [११९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा-
प्रत सूत्रांक
(शी०)
[३०]
॥५०॥
दीप अनुक्रम [३१]
शरीरस्थत्वात् , खद्योतकदेहपरिणामवत् , तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात् , ज्वरोष्मवत् , अध्ययनं १ न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ॥ उक्तं
* उद्देशकः४ |लक्षणद्वारं, तदनन्तरं परिमाणद्वारमाह
जे बायरपजत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिपिणवि रासी वीसुं लोगा असंखिज्जा ॥१२०॥ A ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घ-धेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्वादरपृथिवीकायप-15
योप्तकेभ्योऽसङ्ख्यगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराम्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह
दहणे पयावण पगासणे य सेए य भत्तकरणे य । बायरतेउकाए उपभोगगुणा मणुस्साणे ॥ १२१॥ __ दहन-शरीराद्यवयवस्य वाताद्यपनयनार्थ प्रकृष्ट तापनं प्रतापन-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता ॥५०॥ गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह
-RE-7-06-24-3-%
5-%
[111]