SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१६६) तिथिप्रमाणमिति । अनेनेदमुक्तं भवति यत् सूर्योदयवेलायां या तिथि: सैव मान्या नापरेति. तथा श्रीहीरप्रश्न चतुर्थप्रकाशे. टिततिथिमाश्रित्य प्रश्न एवं कृतोस्ति तथाहि-"यदा पंचमी तिथिस्त्रुटिता भवति तदातत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति. अत्रोत्तरं-यदा पंचमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यांतिथौ क्रियते पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्ति. अत्र विजयानंदमूरिमच्छियाः प्रतिपद्यपीति अपि शब्दं गृहित्वा पूर्णिमाभिवृद्धौ प्रतिपवृद्धिं कुर्वन्ति तन्मतमपास्तं यतः पूर्णिमाभिवृद्धो त्रयोदश्या वृद्धिर्जायते न तु प्रतिपदः यतष्टिप्पणकादौ चतुर्दश्यां संक्रमीता भवति तदा भवद्विद्वेचतुर्दश्यौ किं न क्रियेते ? तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता ? इति त्वं पृच्छसि, शृणु तत्र उत्तरं जैनटिप्पनके तावत् (पर्व)तिथिनां वृद्धिरेवनभवति ततः परमार्थतः, त्रयोदश्येव वर्धिता भवति, न तु प्रतिपवृद्धिर्भवति. लौकिकलोकोतरशास्त्रप्रतिबंधितत्वात् तस्मात् सिद्धं चैतत् पूर्णिमावृद्धौ त्रयोदशीवर्द्धनं. चेदेतत् तब न रोचते तदा प्रथमाम् पूर्णिमा परित्यज द्वितीयां पूर्णिमाम् भज अथ एवमपि ते न रोचते तर्हि प्रष्टव्योसि, यत् चातुर्मासिकसंबंधि पूर्णिमा बुद्धौ त्वं त्रयोदशी. वृद्धिं कुरुषे ? शेषपूर्णिमासु च प्रतिपद् इति कुत्र शिक्षितोऽसि ? यतः सर्वा अपि अमावास्यापूर्णिमातिथयः पर्वत्वेनाराध्या एव इति यदुक्तं श्रीश्राद्धदिनकृत्ये "उण्हं तिहीण मज्झमि कातिही Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034996
Book TitleParvtithi Prakash Timir Bhaskar
Original Sutra AuthorN/A
AuthorTrailokya
PublisherMotichand Dipchand Thania
Publication Year1943
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy