________________
शृण्वन्प्रजावचः सर्व, सदा गर्वं न वा चरेत् ॥ मदाज्ञया चरेत्कार्य, यस्य नान्यायिचिन्तनम् ॥८॥ एवं राजाऽस्ति मद्भक्तो, निर्लेपी मयि रागवान् ॥ एवं नृपो भवेन्मुक्तो, भुवि सत्यं प्रचारयेत् ॥८१ ॥ सति हेतौ विवेकी, स्यात्सत्तायाश्चैव निश्चयी ॥ शत्रूणां सम्मुखे स्थाता, गन्ता च युक्तिबुधिभिः॥८॥ बोधयेत्स्वप्रजाधर्म, कर्म राज्यार्ह माचरन् । निःसारयेत्प्रजाभ्रान्तिं, प्रजाभ्यः सुखमर्पयेत् ॥८३॥ एवं राजा भवेदार्यो, नादत्तेऽन्यायहारवम् ॥ खाश्रयशक्तिधर्ता च, दक्षः सर्वकलासु च ॥ ८४ ॥ एवं राजाऽस्ति यो जैनो, दैन्यं राजप्रजासु न ॥ कर्मयोगिगुणं कर्म, धर्ताऽऽत्मसुखमश्नुते ॥ ८५ ॥ दयां विना न राजा स्था, दयालुः शोभते नृपः। शोभतेऽतिप्रदो राजा, साधुब्राह्मणरक्षकः ॥८६॥ विवेकी शोभते राजा, साधून्यो सेवतेऽनिशम् ॥ श्रद्धावान्समयं ज्ञात्वा, मत्सत्याज्ञां प्रपालयेत् ॥७॥ कालस्याऽपि नृपः कालो, यद्रागातिशयो मयि ॥ ज्ञात्वाऽऽचारेषु तद्धर्ता, सतीनारीप्रपालकः ॥८८॥ सत्यवादी च निर्लोभी, न करो यत्र भूपतिः ॥ आत्मशुद्धिं प्रजाभक्तौ, मन्यते स शिवं श्रयेत् ॥८९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com