________________
(१०) कन्यकारक्षकोऽतीव, स्वकर्तव्यं सदाऽऽचरेत् ॥ सद्गुरोर्देशनाश्रोता, निष्कामकर्मकारकः ॥ ९० ॥ यः श्रोता धर्मशास्त्राणां, स्वज्ञानानुभवी पुनः॥ देशकालादिविज्ञाता, स राजा मानमश्नुते ॥ ११॥ पापियुद्धं न वा कुर्यात, नान्यदेशविनाशकः ॥ धर्ता सात्त्विकवृत्तीनां, स्यादधर्मान्निवर्तकः ।। ६२ ।। त्यागी मिथ्याप्रशंसानां, सदाचारेऽतिरागवान् ॥ नान्यायेन करग्राही, प्रजां किञ्चिन्न पीडय ॥ ६३ ॥ विद्यापीठाऽदिकर्ता च, कलाविद्याप्रसारकः ॥ यत्र सर्वप्रजाः सैन्यं, स्वतन्त्रं राज्यमस्ति तत् ॥१४॥ प्रजार्थमर्पयेद्भोगं, योगज्ञानादिकं चरेत् ॥ कालावश्यक्रियाकर्ता, स्वयं क्षान्त्वा क्षमापकः॥६५॥ मायां प्रपञ्चितां ज्ञात्वा, प्रतिकारपरायणः नालापे यापयेत्कालं, प्रजासंभारतत्परः ॥६६॥ नासत्यकर्मधर्ता स्या,-च्छत्रमित्रपरीक्षकः ॥ दीर्घदृक् परिणामज्ञं, विज्ञं कुर्यादमात्यकम् ॥१७॥ भेदभावं त्यजेदूरं, यः शूरो धर्मसंगरे ॥ कालानुसारतो नीति, वर्तेताऽपि प्रवर्तयेत् ॥ ९८ ॥ बुद्धिबलस्य धर्ता यः प्रसन्नपार्श्वरक्षकः ॥ सर्वयुक्त्या चरन्कर्म, ना दत्तेऽन्यायिक धनम् ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com