________________
( ८ )
इन्द्रियाणि जयेद्यश्च वशे कृत्वा मनो व्रजेत् ॥ समो यः सुखदुःखेषु, विश्वस्वामी स वर्तते ॥ ७० ॥ कायेन्द्रियमनोजेता, व्यक्तिराज्यं करोति सः ॥ यद्वशे नेन्द्रियं कायो, राज्यार्हः स कदापि न ॥ ७१ ॥ विषयेषु बहूत्कण्ठा, विश्वासो यत्र नाऽऽत्मनः ॥ जडमोही परायत्तः, स राजा न गुणी भवेत् ॥ ७२ ॥ भयधर्ता वपुर्लक्ष्म्यो, – जडाशावाहकश्च यः ॥ नासौ राजा भवेद्गरायो, देहदासाश्च दुःखिनः ॥ ७३ ॥ सर्वधर्मस्य सत्यज्ञो, राज्यकृत्यं करोति सः ॥ जैनधर्मक्रियाज्ञान, व्यापकदृष्टिधारकः
॥ ७४ ॥
महन्मनश्च यः कुर्या, दुःख सोढा स भूपतिः ॥ न मोही धनसत्ताभी, राजा वाच्यः पराक्रमात् ॥७५॥ सर्वा प्रिया च यस्योक्तिः, श्रुत्वा सर्वं विचारयेत् सत्ताधर्ता च नीत्या यः, प्रजानां हितकारकः ॥ ७६ ॥ सुखार्थं दण्डयेद्दुष्टान्, यत्संकेत : शुभोत्तमः ॥ उपकृत्यै त्यजेत्स्वार्थ, मुपकारो यदाशये ॥ ७७ ॥ एवं राजाऽस्ति मे भक्तो, बाह्यासक्तिर्न यहृदि ॥ सत्यराज्यं हि मद्भक्तिः, जीवन्ते तेन शक्तयः ॥७८॥ स्वेच्छया नाचरेश्यायं, पक्षपाते न मुह्यति ॥ न्यायः प्रजेशयोः स्तुल्य, स्तज्जीवद्राज्य मुच्यते ॥ ७६ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat