SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (६०) देहादिजडभावेषु, रागो रोषश्च नास्ति मे । रागो रोषो न जीवेषु, सर्वान् क्षमापयाम्यहम् ॥६०॥ अहं त्वं च ममत्वं हि, नास्ति किश्चिञ्चराचरे । अहं त्वं च ममत्वं च, विना जीवामि चिद्घनः ॥६१ ।। चिदानन्दस्वरूपेण, जीवनं मे सनातनम् । बाह्याऽऽत्मजीवनं मिथ्या, ज्ञात्वा भूतः समाधिमान् ॥१२॥ बाह्यसमाधितोऽनन्त,-गुणश्रेष्ठाः समाधयः । अान्तरो मे स्वरूपोऽस्ति, चिदानन्दमयः खलु ॥६३॥ बाह्यान्तरममत्वस्य, त्यागान्मेऽस्ति सुखं भृशम् । मत्तद्भावोन मे चित्ते, स्मरामि चिद्घनं निजम् ॥६॥ ब्रह्मरूपेण पश्यामि, सर्वजीवान्समाधितः । आत्मरूपं प्रति प्रेम्णा, गच्छामि हि प्रतिक्षणम् ॥६५॥ विश्वजीवान्नमस्कृत्य, स्वदेशं यामि निश्चलम् । सन्तश्चलन्तु सत्प्रीत्या, स्वदेशं प्रति सत्वरम् ॥६६॥ प्रणामोऽस्तु प्रणामोऽस्तु, सर्वविश्वस्थदेहिनाम्। यूयमेवाहमाऽऽत्मास्मि, वस्तुतो ब्रह्मसत्तया ॥ ६७ ॥ कषायो जायते शीघ्रं, पुद्गलारोपतो मयि । वैभाविकी दशा मिथ्या, तत्र मे नास्ति किञ्चन ॥८॥ कर्मणामनुसारेण, सर्वजीवप्रवृत्तयः । अशुभाश्च शुभाः सन्ति, तत्र साम्यं प्रधारय । ६६ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy