________________
(५९)
प्रतिक्षणं स्मराऽऽत्मानं, चिदानन्दमयं प्रभुम् । सत्तया परमाऽऽत्मान, मनन्तशक्तिसंयुतम् ॥ ५० ॥ न त्वं प्राणा न देहोऽसि, दुःखराशिं सहस्व भोः । दुःखसहनतायोगा,-द्विकाशोऽस्ति निजाऽऽत्मनः ॥५१॥ मृत्युकालस्य दुःखेन, कर्मनाशोऽस्ति ते द्रुतम् । अतस्त्वं मृत्युतो मा भी, म॒त्योः पश्चात्सुखं महत्॥५२॥ नाशो न मृत्युतस्तेऽस्ति, मृत्युचणिकपर्यवम् । विज्ञायैवं स्मराऽऽत्मानं, ततोमोक्षोऽस्ति ते द्रुतम् ॥५३॥
आत्मानमन्तरा सर्व, मन्यत्स्वप्नोपमं खलु । संसारस्मरणादुःख,-माऽऽत्मनः स्मरणात्सुखम्॥५४॥ सर्वपुद्गलभावेभ्यो, भिन्नोऽसि त्वं न ते तव । जडस्य ममतां त्यक्त्वा, स्मराऽऽत्मानं प्रतिक्षणम् ॥५५॥ मत्तो भिन्नं जगत्सर्व, तत्र मे नास्ति किञ्चन । एकोऽस्मि ब्रह्मरूपोऽहं, नाहं दृश्येषु वस्तुषु ॥ ५६ ॥ मदीयं कल्पितं यद्य, त्तत्तन्मिथ्या मतं मया । मोहेन कल्पितं सर्वं, स्वकीयं तत्यजाम्यहम्॥ ५७॥ स्मरामि ब्रह्मरूपं मे, विस्मरामि च पुद्गलम् । व्युत्सृजामि जगन्मोहं, स्थिरो जातो निजाऽऽत्मनि।५। भूत्वा स्वाऽऽत्मोपयोगी स्वं,चिदाऽऽत्मानं प्रतिक्षणम् । स्मरामि निर्ममो भूत्वा, विस्मरामि जडं जगत् ॥५६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com