SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मित्रशत्रुषु रागं वा, द्वेषं किञ्चिन्न धारय । कर्मणामनुसारेण, मित्राणि शत्रवश्च ते ॥७० ॥ वैरिणः प्रति मा वैरं, कुरुष्व भव्यचेतन ! वैरस्य प्रतिकर्मत्वं, मा कुरु वैरबुद्धितः ॥७१ ॥ वैरिणां नाशत: शिक्षा, वैरिणां न मिलत्यहो । वैरेण वर्द्धते वैरं, वैरं ज्ञानेन नश्यति ॥७२ ॥ यावत्ते वैरभावोऽस्ति, तावच्छान्ति न जायते । समाधिर्जायते नैव, वैरेण कर्म वर्धते ॥७३ ॥ केऽपि शुभं न कुर्वन्ति, पुण्योदयं विना च ते । केऽप्यशुभं न कुर्वन्ति, पापोदयं विना च ते ॥७४ ॥ पुण्यं पापं न ते रूपं, त्वत्तो भिन्नं विचारय । द्वाभ्यां भिन्नश्चिदानन्द, आत्मासि सन्निरञ्जनः॥७५॥ मित्रं शत्रुन ते कोऽपि, त्वं चिदानन्दरूपवान् । नाकाशस्येव संयोगो, वियोगश्च हि निश्चयात् ॥७६॥ एकाऽऽत्मा व्यापको नित्यः, संग्रहनयसत्तया । स्मरामि ह्याऽऽत्मनः सत्तां, यथा मुक्तिःक्षणाद्भवेत्।७७। यदा तदा शरीरादे, म॒त्युतो न बिभेम्यहम् । भयं द्वैताद्भवत्येव, निर्भयोऽद्वैतभावतः ॥ ७८ ॥ स्तुतिनिन्दासु साक्ष्याऽऽत्मा, जातोऽहमुपयोगतः। द्वेषोरागो न मे कश्चित् , स्तुतिनिन्दाप्रकर्तृषु ॥७६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy