________________
( ५४ )
॥ आत्मसमाधि ग्रन्थः ॥
-*©OK=
"
प्रणम्य श्रीमहावीरं, सर्वज्ञं विश्वशासकम् । परब्रह्म जगन्नाथं, विष्णुं रामं महाहरम् ॥ १॥ प्रणम्य सद्गुरुं भक्त्या, सम्यग्ज्ञानप्रदायिनम् । वक्ष्ये समाधिरूपं स - च्चिदानन्दप्रकाशकम् ॥ २ ॥ स्वपरशास्त्र गुर्वादे, -रनुभवादनेकधा । श्रसंख्याताश्च विज्ञेया, भेदा योगस्य मानवैः ॥ ३ ॥ योग एव समाधिर्हि, समाधिर्योग उच्यते । ध्यानभेदः समाधिश्च ततो भवति केवली ॥ ४ ॥
"
मंत्रयोगः क्रियायोगो, हठयोगश्च कथ्यते । लययोगश्च योगेषु, - राजयोगो महान्स्मृतः ॥ ५ ॥ शुद्धsserat हि यज्ज्ञानं, वैराग्यसमसंयुतम् । राजयोगः समाधिः सः, शुद्धोपयोग इष्यते ॥ ६ ॥ रागद्वेषादिसंकल्प, -विकल्पवर्जितं मनः । यदा भवेत्तदा चित्त, - समाधिर्जायते खलु ॥ ७॥ कषायोपशमो यस्य, तस्य योगः प्रगीयते । आत्मन्येव मनः स्थैर्य, समाधि र्गीयते बुधैः ॥ ८ ॥ रागद्वेषादियुक्तस्य - चित्तस्य यन्निरोधनम् । वृत्तिसंक्षययोगोऽस्ति, समाधिः स च गीयते ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com