SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( ५५ ) सम एव समाधिर्हि, राजयोगो महान्स्मृतः। जीवाजीवपदार्थेषु, चाशुभं न शुभं मनः ॥ १० ॥ धर्मव्यापारकार्येषु,-धर्मिणां च स्थिरं मनः । परीषहोपसर्गो न, समाधिः स च गीयते ॥ ११ ॥ स्वान्येषां धर्मकार्येषु, योग्येषु यत्स्थिरं मनः । मोहवृत्तिनिरोधेन, समाधिर्योग उच्यते ॥ १२ ॥ जन्ममृत्यू च देहस्य, प्राणानां च विसर्जनम् । न च शुद्धाऽत्मनो जन्म, मृत्युश्च निश्चयेन वै ॥१३॥ दर्शनज्ञानचारित्र,-रूपाऽऽत्मा येन बुध्यते । तस्य शुद्धोपयोगोऽस्ति, समाधिः स च गीयते ॥१४॥ शुद्धाऽऽत्मनश्च यज्ज्ञानं, समाधिस्तत्स्मृतिः खलु । प्रतिचणं परब्रह्म,-स्वरूपस्य प्रचिन्तनम् ॥ १५ ॥ शुद्धाऽऽत्मनः स्मृति र्या च, चिन्तनं तस्य भावना । ध्यानं सा सविकल्पाऽस्ति, समाधिर्मोहवारिका ॥१६॥ यमादिसाधनै यस्य, स्याच्च ब्रह्मविचारणा । कामादीनां शमस्तस्य, सविकल्पसमाधयः ॥१७॥ रागरोषादिसंकल्पा,-विकल्पाश्च भवन्ति न । यस्य तस्य समाधिर्हि, यत्र तत्र यदा तदा ॥१८॥ सद्देवगुरुधर्मादेः, साधनाद्भक्तयोगिनाम् । प्रशस्तरागरोषादेः, सविकल्पसमाधिता ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy