________________
(५३) अध्यात्मयोगशास्त्राणा,-मभ्यासाड्यानतो मयि । स्वाभाविकी समुत्पन्ना, स्फुरणा ज्ञानसभ्भवा॥५२०॥ यादृशी तादृशी जाता, लिखिता साऽननुक्रमात् । हंसदृष्टितया सन्तः सारं गृह्णन्तु भावतः ॥ ५२१ ॥ नानुक्रमोऽत्र पद्यानां, विषयाणां विजानत । अत्राऽध्यात्मिकतत्त्वस्य, विषयो मुख्य एव सः ॥५२२।। भक्तिक्रियादिपक्कानां, गुरुकुलप्रसेविनाम् । गुर्वात्मीभूतशिष्याणा, मध्याऽऽत्मधर्मकांक्षिणाम् ।५२३। देयमध्याऽऽत्मनो ज्ञानं, गीतार्थैर्नयकोविदैः । प्राणान्तेऽपि न दातव्यं, धूर्तनास्तिकदेहिनाम् ॥५२४॥ अध्याऽऽत्मज्ञानगीतायाः, पढनाच्छ्रवणाजनाः। मननात्स्मरणाज्ज्ञानं, सुखं यान्तु च मङ्गलम् ॥५२५॥ अध्यात्मज्ञानिनःसन्तो, वर्द्धन्तां विश्वशान्तिदाः । सात्त्विका योगिनो भव्या, व्यक्तीभवन्तु भूरिशः॥५२६।। स्वतन्त्राः सन्तु विश्वस्थ,-लोका आत्मसुखार्थिनः। शान्ति तुष्टिं च पुष्टिं च, मङ्गलं यान्तु सत्पदम् ॥५२७॥ चिदानन्दमयाः सर्वे,-भवन्तु विश्वदेहिनः । शुद्धाऽऽत्मराज्यसाम्राज्य,-स्वातन्त्र्यं यान्तु सत्वरम् ५२८ मंगलं जैनधर्मोऽस्ति, जैनसंघोऽस्ति मंगलम् । मंगलं सन्तु सिद्धार्ह,-त्सूरिवाचकसाधवः ॥५२६॥
॥ ॐ शान्तिः ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com