SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (५२) समत्वं यस्य संजातं, तस्य किं त्यागतः खलु । समाऽऽत्मनस्तपस्त्याग,-क्रियादे न प्रयोजनम् ॥५१०॥ ज्ञानवैराग्यसत्प्रीत्या, निःसंगत्वं प्रजायते । समत्वं जायते सत्यं, ततो मोक्षः प्रजायते ॥५११॥ बन्धोमोक्षोऽस्ति चित्तेन,-बाह्ये किञ्चिन्न जानत । न च बन्धोन मोक्षोऽस्ति. जाते शद्धेनिजाऽऽत्मनि५१२ विज्ञेयः परमाऽऽत्मा स, बन्धे मोक्षे च यः समी। विज्ञेयः स च संसारी, बन्धे मोक्षे न यः समी ॥५१३॥ इत्येवमाऽऽत्मबोधस्य,-बीजं सद्गुरुसेवनम् । सर्वोपायेषु मुख्यं त,-त्सद्गुरोः पादसेवनम् ॥५१४॥ परस्परोपकारेषु, विश्वस्थसर्वदेहिनाम् । स्वाभाविकप्रवृत्तिहि, देहादेर्जीवनाय च ॥ ५१५॥ आत्मार्थमन्यलोकानां, हितार्थं मुक्तिकांक्षिणाम् । निर्मलाऽध्याऽऽत्मगीतेयं, कृता विश्वोपकारिणी॥ ५१६।। खसिद्धिनिधिचन्द्रा), वैक्रमाब्दे हि वत्सरे। श्रावणशुक्लपञ्चम्यां, प्रहराये कुजे दिने ॥५१७ ॥ पेथापुरे स्थितिं कृत्वा, ज्ञानवैराग्यभावतः । रचिताऽध्याऽऽत्मगीतेयं, बुद्धिसागरसूरिणा ॥५१८॥ पञ्चशताधिकैः पद्यैः, ग्रन्थोऽयमुपकारकः । श्राचन्द्रार्कमही याव,-नन्दतु विश्वबोधकः ॥ ५१६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy